|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.100. अध्यायः 100
Mahabharata - Bhishma Parva - Chapter Topics
अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-100-0x(4189)(43261)
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥ 6-100-1(43262)
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः।
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥ 6-100-2(43263)
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्।
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥ 6-100-3(43264)
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः।
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ 6-100-4(43265)
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ 6-100-5(43266)
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥ 6-100-6(43267)
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः।
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ 6-100-7(43268)
तान्यनीकानि सौभद्रो द्रावयामास भारत।
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥ 6-100-8(43269)
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ॥ 6-100-9(43270)
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ 6-100-10(43271)
न चैनं तावका राजन्विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥ 6-100-11(43272)
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वासवः ॥ 6-100-12(43273)
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
तोयदेषु यथा राजन्राजमाना शतह्रदा ॥ 6-100-13(43274)
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ 6-100-14(43275)
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥ 6-100-15(43276)
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्।
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥ 6-100-16(43277)
मण्डलीकृतमेवास्य धनुः पश्याम भारत।
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ॥ 6-100-17(43278)
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ 6-100-18(43279)
तेनार्दिता महाराज भारती सा महाचमूः ।
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ॥ 6-100-19(43280)
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ 6-100-20(43281)
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे।
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥ 6-100-21(43282)
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 6-100-22(43283)
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत।
एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ॥ 6-100-23(43284)
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ।
तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ॥ 6-100-24(43285)
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् ।
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥ 6-100-25(43286)
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः ।
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ॥ 6-100-26(43287)
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥ 6-100-27(43288)
तस्य शब्देन महता पाण्डवानां बलं महत् ।
प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ॥ 6-100-28(43289)
बहवश्च महाराज तस्य नादेन भीषिताः।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ 6-100-29(43290)
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ 6-100-30(43291)
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे।
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥ 6-100-31(43292)
तां वध्यमानां च तथा पाण्डवानां महाचमूम्।
प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ॥ 6-100-32(43293)
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुगे॥ 6-100-33(43294)
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्।
व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ॥ 6-100-34(43295)
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ 6-100-35(43296)
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा।
ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ॥ 6-100-36(43297)
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः।
राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ॥ 6-100-37(43298)
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ 6-100-38(43299)
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ 6-100-39(43300)
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 6-100-40(43301)
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः ।
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ 6-100-41(43302)
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे।
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः । 6-100-42(43303)
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ 6-100-43(43304)
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ 6-100-44(43305)
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ 6-100-45(43306)
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव ।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ 6-100-46(43307)
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ॥ 6-100-47(43308)
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ 6-100-48(43309)
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ 6-100-49(43310)
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥ 6-100-50(43311)
तयोः समभवद्युद्धं वृत्रवासवयोरिव।
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ॥ 6-100-51(43312)
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥ 6-100-52(43313)
परस्परमवेक्षेतां कालानलसमौ युधि।
`आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।'
तयोः समागमो घोरो बभूव कटुकोदयः ॥ 6-100-53(43314)
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥ ॥ 6-100-54(43315)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-100-16 लघु सुष्ठु च शीघ्रं शोभनं च यथा स्तात्तथा ॥ 6-100-23 आर्ष्यशृङ्गिमलम्बुसम् ॥ 6-100-39 सर्वपारशवैः सर्वलोहमयैः ॥ 6-100-40 संस्यूतो ग्रथितः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|